||Sundarakanda ||

|| Sarga 60|( Summary in Sanskrit & Telugu)

 

||om tat sat||

सुंदरकांड.
अथ षष्टितमस्सर्गः॥

तस्य हनुमतस्य तत् वचनं श्रुत्वा वालि सूनुः अभाषत॥ वानराः दृष्टवद्भिः अस्माभिः देवी विना महात्मनः राघवस्य समीपं गंतुं अयुक्तं तु॥ख्यातविक्रमैः भवद्भिः देवी दृष्टा न आनीता च इति तत्र निवेदितुं अयुक्तं इव पश्यामि॥

हरिसत्तमाः सामरदैत्येषु लोकेषु प्लवने नः तुल्यः कश्चित् नहि । प्राक्रमे अपि कश्चित् न॥तेषु राक्षसेषु हनुमता एवं हतवीरेषु अत्र किं किं अन्यत् कर्तव्यं जानकीं गृहीत्वा याम॥

अर्थवित् हरिसत्तमः जाम्बवान् परमप्रीतः एवं कृतसंकल्पं तं अर्थवित् वाक्यं उवाच॥

राजपुत्र भवान् यथा पश्यति एषा मतिः नः अक्षमा । नतावत् तु । रामस्य मतिः यथा निविष्टा तथा भवान् कार्यसिद्धिं पश्यतु॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे षष्टितमस्सर्गः ॥

||ओम् तत् सत्||